Google, IBM & Meta Certificates – 40% Off
One plan covers every Professional Certificate on Coursera.
Unlock All Certificates
औचित्यम्संस्कृतं नाम विश्वस्य प्राचीनतमा भाषा। एषा भाषा अधिकांशभारतीयभाषाणाम् यूरोपीयभाषाणां च जननीरूपेण अथवा सम्पोषिकारूपेण विराजते। एषा ननु मूलघेतः एव भारतीयसंस्कृतेः,धर्मस्य,दर्शनस्य,अध्यात्मज्ञानस्य,इतिहासस्य,पुराणानाम्,भूगोलस्य,राजनीतेः अपि च विज्ञानस्य। संस्कृतभाषा नवीनशब्दानां निर्माणार्थम् अपूर्वां क्षमतां धारयति यस्याः उपयोगः अन्याभिः भारतीयभाषाभिः अपि क्रियते। राष्ट्रीयभावनात्मकैक्याय अन्ताराष्ट्रियभ्रातृत्वभावनायाः सुदृढीकरणाय अस्याः महत्त्वपूर्णं योगदानमस्ति। संस्कृतवाङ्मये मानवीयमूल्यानां संरक्षणार्थं संवर्धनार्थ सम्यग्विकासार्थञ्च अत्र अमूल्यसामग्री विद्यते।‘वसुधैव कुटुम्बकम्‘ ‘यत्र विश्वं भवत्येकनीडम्‘इत्यादीनि आदर्शवाक्यानि आदिकालतः अद्यपर्यन्तम् विश्वस्य सम्मुखे विश्वव्यापिनः ऐक्यस्य कीर्तिमानं स्थापयन्ति। इयं भाषा एव वैश्वीकरणस्य संकल्पनां सर्वप्रथमं प्रस्तौति। संस्कृत भाषाभागीरथी प्राचीनकालतः अद्यावधि सततरूपेण प्रवहमाना वर्तते। वर्तमाने कालेऽपि बहुभिः जनैः दैनिकजीवने अस्याः भाषायाः प्रयोगः क्रियते। छात्राः संस्कृतभाषायां निहितज्ञानेन विज्ञानेन च परिचिताः भूत्वा आत्मगौरवस्य अनुभवं कुर्युः इति कारणतः उच्चतरविद्यालयीयपाठ्यक्रमे संस्कृतभाषायाः अध्ययनार्थम् अवसरः कल्प्यते।उच्चतरमाध्यमिकस्तरे संस्कृतभाषां पठित्वा छात्राः विश्वविद्यालयस्तरे प्रवर्तमानेषु पाठ्यक्रमेषु अध्ययनार्थम् अवसरं प्राप्तुं समर्थाः भविष्यन्ति,भारतीयस्य आध्यात्मिकसाहित्यस्य पारायणे,वैज्ञानिकचिन्तने शक्ताः भविष्यन्ति। संस्कृतवाङ्मये निहितविशिष्टज्ञानसम्पदा परिचिताः भूत्वा गौरवम् अनुभविष्यन्ति। एषः पाठ्यक्रमः नैतिकादर्शानां स्थापनायाम् अपि च सम्पूर्णव्यक्तित्वविकासार्थं च साहाय्यकः भविष्यति इति आशास्यते।